०९४ चित्रम्

प्रिया सन्निहितैवेयं सङ्कल्पस्थापिता पुरः ।
दृष्ट्वा दृष्ट्वा लिखाम्य् एनां यदि तत् कोऽत्र विस्मयः ॥९४१॥

प्रभाकरदत्तस्य । (न्न् २।९)

रहसि सततोत्सङ्गन्यासाद् अजस्र … … … …
… … … … … … मर्षान् नित्यस्तनार्पणकेलिभिः ।
अनिशचरणोपान्तस्पर्शान् निरन्तरचुम्बनैर्
अपि खलु तया … … लेख्यैः स चित्रपटीकृतः ॥९४२॥

उमापतिधरस्य ।

मसीयं तूलीयं फलकम् इदम् एष त्वम् अधुना
जडोऽसि स्विन्नोऽसि स्खलसि खलु पाणे कथम् इव ।
अमुष्य प्रावीण्यं कलयसि न किं हन्त मनसो
विना यत् सामग्रीं सुभगशतम् अग्रे विलिखति ॥९४३॥

कस्यचित् ।

चित्रं चित्रगतोऽप्य् एष ममालि मदनोपमः ।
समुन्मूल्य बलाल् लज्जाम् उत्कण्ठयति मानसम् ॥९४४॥

रुद्रटस्य । (शृ।ति। १।५१ब्)

तवालेख्ये कौतूहलतरलतन्वीविरचिते
न्धायैका चक्रं रचयति सुपर्णासुतम् अपि ।
अथ स्विद्यत्पाणिस्खलितम् अपमृज्यैतद् अपरा
करे पौष्पं चापं मकरम् उपरिष्टाच् च लिखति ॥९४५॥

कस्यचित् । (स।क।आ। ३।१६७)