ललितललितस्निग्धालापस्मितस्नपिताधरं
दरमुकुलितापाङ्गद्रोणीतरङ्गितलोचनम् ।
इदम् इत इतः पश्यन्न् एव प्रियामुखपङ्कजं
किम् अपि वदनाद्वैतं साक्षात्करोमि मृगीदृशः ॥९३१॥
अभिमन्योः ।
मुखं ज्योत्स्नालोकप्रसरधवलाक्षं क्व नु मया
पुनर् द्रष्टव्यं तत्स्मितमधुरमुग्धाल्पदशनम् ।
क्व सा श्रव्या वाणी विजितकलहंसीकलरुता
विलासा वीक्ष्यन्तां क्व च सहभुवो धीरललिताः ॥९३२॥
कर्णाटदेवस्य ।
अपि स दिवसः किं स्याद् यत्र प्रियामुखपङ्कजे
मधु मधुकरीवास्मद्दृष्टिर् विकासिनि पास्यति ।
तद् अनु च मृदुस्निग्धालापक्रमाहितनर्मणः
सुरतसचिवैर् अङ्गैः सङ्गो ममापि भविष्यति ॥९३३॥
वार्तिककारस्य । (सु।र। ७७७)
भ्रश्यद्विवक्षितम् अपस्खलदक्षरार्थम्
उत्कम्पमानदशनच्छदम् उच्छ्वसन्त्या ।
अद्य स्मरामि परिमृज्य पटाञ्चलेन
नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् ॥९३४॥
सोल्लोकस्य । (सु।र। ७८७)
स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं
स्रवत्स्वेदक्लिन्नं सुरतविरतिक्षामनयनम् ।
कचाकर्षक्रीडासरलधवलश्रोणिसुभगं
कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः ॥९३५॥
कस्यचित् । (सु।र। ७८१)