प्रहर्ता क्वानङ्गः स च कुसुमचापोऽल्पविशिखश्
चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः ।
इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे
रुदाम् आविर्भावाद् अनुभवविरोधः शमयति ॥९२६॥
मृगराजस्य । (सु।र। ७८५)
त्वं तस्यां यदि नाम रागविधुरं जातं विमुच्यैव मां
तत् केनाहम् इदं किम् अप्य् अनुभवाम्य् अन्तःसमुत्कण्ठितः ।
स्वस्थीभूय ननु क्षणं हृदय हे सद्भावम् आचक्ष्व मां
किं सन्तापविखण्डितस्य भवतो वृत्तिर् द्विधा वर्तते ॥९२७॥
अवन्तिवर्मणः । (स्व्। १३४८)
अप्य् एतद् रजनीमयं जगद् अथो निद्रामयी सा निशा
निद्रा स्वप्नमयी भवेद् अथ च स स्वप्नो मृगाक्षीमयः ।
सेयं मानमयी मम प्रियतमा तच् चाटुचेष्टामयो
मादृक् क्वेति समीहितैकविधये सङ्कल्प तुभ्यं नमः ॥९२८॥
गोतिथीयदिवाकरस्य ।
सङ्गमविरहविकल्पे
वरम् इह विरहो न तु सङ्गमस् तस्याः ।
सङ्गे सैव तथैका
त्रिभुवनम् अपि तन्मयं विरहे ॥९२९॥
धर्मकीर्तेः । (पद्या॥ २३९, सा।द। उन्देर् १०।५२)
विकल्परचिताकृतिं सततम् एव तां वीक्षसे
सहासम् अभिभाषसे समुपगूहसे सर्वथा ।
प्रमोदमुकुलेक्षणं पिबसि चैतद् अस्या मुखं
तथापि च दिवानिशं हृदय हे सौमुत्कण्ठसे ॥९३०॥
भर्वोः । (स्व्। १३२९)