विवेकाद् अस्माभिः प्रमपुरुषाभ्यासरसिकैः
कथञ्चिन् नीयन्ते रतिरमणबाणैर् अपि हतैः ।
प्रियाया बालत्वाद् अभिनववियोगात् तव तनोर्
न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः ॥९१६॥
कस्यचित् । (सु।र। ७८०)
आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकां
केयूरीभवदल्पशेषवलया बाला समस्तं दिनम् ।
सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मे
पन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ॥९१७॥
कस्यचित् ।
अनारब्धाक्षेपं परमकृतबाष्पव्यतिकरं
निगूढान्तस् तापं हृदयविनिपीतं व्यवसितम् ।
कृशाङ्ग्या यत् पापे व्रजति मयि नैराश्यपिशुनं
श्लथैर् अङ्गैर् उक्तं हृदयम् इदम् उन्मूलयति तत् ॥९१८॥
कस्यचित् । (स्व् १३३३)
उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता
निःश्वासा अपि निःश्वसन्त्य् अनिभृतं बाष्पोऽपि बाष्पायते ।
कान्तां संस्मरतो विदेशवसतेर् नक्तं दिवं कामिनः
प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात् ॥९१९॥
कस्यचित् । (स्व् ११५२)
निरस्तालङ्कारां नयनजलसिक्ताधरपूटां
रवावस्तं याते द्विगुणतरखेदालसमुखीम् ।
अहो दूरस्थां तां करकमलविन्यस्तवदनां
प्रियां पश्यामीव स्मृतिशरटकुड्ये विलिखिताम् ॥९२०॥
कस्यचित् ।