तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावन्
निक्षिप्तौ तावद् अङ्घ्री पथि पथिकजनैर् लक्षितास् तावद् आशाः ।
नृत्यद्धाराकदम्बस् तव कवलयिता यावद् एते न दृष्टा
निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विन्ध्यपादाः ॥९११॥
योगेश्वरस्य । (सु।र। २६३)
लीलाम्भोजतमालकज्जलजलश्रीक्ण्ठकण्ठद्युते
भ्रातर् मघ महेन्द्रचापरुचिरं व्यासस्य कण्ठे गुणम् ।
स्वैरं गर्ज मुहूर्तकं कुरु दयां सा बाष्पपूर्णेक्षणा
बाला बालमृणालकोमलतनुस् तन्वी न सोढुं क्षमा ॥९१२॥
कस्यचित् ।
जलधरमुदितं विलोक्य दूराद्
अहह पदात् पदम् एष न याति ।
अविरतनयनाम्बुदीर्घम् उष्णं
श्वसिति कथं हतजीवितोध्वनीनः ॥९१३॥
कविचक्रवर्तिनः ।
निशीथे लीनानां झटिति तडितां वीक्ष्य विषमं
घनानाम् आभोगं रसिकपथिकेनोन्मुखदृशा ।
न गीतं सोत्कण्ठं न च रुदितम् उत्कम्पतरलं
न मुक्ता निःश्वासाः स्फुटदनुमतं किन्तु हृदयम् ॥९१४॥
वाह्लीकस्य । (शा।प। ३८९२)
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।
अध्वन्येन विमुक्तकण्ठम् अखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैर् व्रजतो जनस्य वसतिर् ग्रामे निषिद्धा यथा ॥९१५॥
[अमरु ११]