०८६ प्रोषितः

देशैर् अन्तरिता शतैश् च सरिताम् उर्वीभृतां काननैर्
यत्नेनापि न याति लोचनपथं कान्तेति जानन्न् अपि ।
उद्ग्रीवश् चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं
ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते ॥९०१॥

[अमरु ९३ (७२); सु।र। ७६५, स।क।आ।म् ९०१, शा।प। ३४४५]

हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।
इदानीम् आवयोर् मध्ये सरित्सागरभूधराः ॥९०२॥

धर्मपालस्य । (स्व् ११९२, शा।प। ३४२९)

भद्रात्र ग्रामके त्वं वससि परिचयस् तेन जानासि वार्ताम्
अस्मिन्न् अध्वन्य् अयोषित्तरुणिमवयसि ध्याय काचिद् विपन्ना ।
इत्थं पान्थः प्रवासावधिदिनगणनापायशङ्की प्रियायाः
पृच्छन् वार्तां समीपस्थितनिजभवनं व्याकुलो नोपयाति ॥९०३॥

कस्यचित् । (शा।प। ३८९५)

वसन्ताग्नौ मग्ना चिरविरहरुग्णा सहचरी
यदि प्राणान् मुञ्चेत् तद् इह वधभागी भवतु कः ।
वयो वा स्नेहो वा कुसुमसमयो वेति विमृशंस्
स्तुहीति प्रव्यक्तं पिकनिकरझङ्कारम् अशृणोत् ॥९०४॥

पिकनिकरस्य ।

सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः
सर्वं नैतद् इहास्ति तत् कथम् असौ पान्थस् तपस्वी मृतः ।
आ ज्ञातं मधुलम्पटैर् मधुकरैर् आरब्धकोलाहले
नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥९०५॥

राजशेखरस्य । (सु।र। ७६०, शा।प। ३८२२)