स्मृतिस्वप्नावाप्तत्वदखिलविलासैकमनसा
तया तावत् तादृक् त्वदनुनययत्नः शिथिलितः ।
अयं तु द्रष्टव्यस् तव सुभग गर्वस्य गरिमा
स्मृतौ वा स्वप्ने वा यदि भवसि वामः कथम् अपि ॥८९६॥
कस्यचित् ।
चरणपतनप्रत्याख्यानात् प्रसादपराङ्मुखे
निभृतकितवाचारेत्य् उक्त्वा रुषा पुरुषीकृते ।
व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया
नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥८९७॥ अमरोः ॥
[अमरु १९]
विरहविषमः कामो वामस् तनुं कुरुते तनुं
दिवसगणनाद् अक्षश् चासौ व्यपेतघृणो यमः ।
त्वम् अपि वशगो मानव्याधेर् विचिन्तय नाथ हे
किशलयमृदुर् जीवेद् एवं कथं प्रमदाजनः ॥८९८॥
[अमरु ६४; स्भ् १६३३, शा।प। ३५७२]
कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन्
उद्दामध्वनिपण्डितान् परिजने किञ्चिच् च निद्रायति ।
तस्मिन् कुप्यति यावद् अस्मि चलिता तावद् विधिप्रेरितः
काश्मीरईकुचकुम्भविभ्रमकरः शीतांशुर् अभ्युद्गतः ॥८९९॥
कस्यचित् । (सू।मु। ७०।१३, काश्मीरबिल्हणस्य; सु।र। ८३४)
मुक्तो मानपरिग्रहः सह सखीसार्थेन तन्मन्त्रिणा
शक्ता त्वच्चरणप्रसादरहिता नाहं क्षणं प्राणितुम् ।
पश्य त्वं कृशकं शरीरकम् इदं यां याम् अवस्थां गतं
सैषाहं तव पादयोर् निपतिता नाथ प्रसीदाधुना ॥९००॥
कस्यचित् ।