स्वैरं कीकटदारकः परिसरे गुन्द्रालतोपाहित
त्वङ्गच्चर्चरको विरूढलशुनश्यामः परिक्रामति ।
विश्रान्तं मुषलैः स्थितं तितौभिर् विश्रब्धम् अम्भोघटैर्
निर्वाणं ज्वलनैर् मुखैर् विवलितं ग्रामेयिकाणां पुरः ॥८९१॥
योगेश्वरस्य ।
धावति तरुम् आरोहति कूपं लङ्घयति शकटम् उत्क्षिपति ।
तिनवति तिनवति गायति दृष्ट्वा परयोषितं षिङ्गः ॥८९२॥
तस्यैव ।
ब्रीहिः स्तम्बकरिः प्रभूतपयसः प्रत्यागता धेनवः
प्रत्युज्जीवितभिक्षुणा भृशम् इति ध्यायन्न् अपेतान्यधीः ।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो
देवे नीरम् उदारम् उज्झति सुखं शेते निशाग्रामणीः ॥८९३॥
तस्यैव ।
परिचुम्बनाय घटते पारममिथुनं निशासु चैत्रीषु ।
कवलितपलाण्डु परिमलसंवलदन्योन्यनिःश्वासम् ॥८९४॥
शुभाङ्कस्य ।
व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया
स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति ।
दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता
तन्व्यङ्ग्या विफलं विचेष्टितम् अभूद् भावानभिज्ञे जने ॥८९५॥
अमरोः । (सु।र। ५११)