शतं वारान् उक्तः प्रियसखि वचोभिः स परुषैः
सहस्रं निर्धूतश् चरणपतितः पार्ष्णिहतिभिः ।
कियत् कृत्वो बद्धाः पुनर् इह न वेद्मि भ्रुकुटयस्
तथापि क्लिश्यन् मां क्षणम् अपि न धृष्टो रहयति ॥८८६॥
कस्यचित् । (स।क।आ। ४।१८०, व्। ३७१)
वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर् विभ्रमैर्
विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने ।
स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलां
धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्य् आगसः ॥८८७॥
कस्यचित् । (शृ।ति। २।३६अ, शा।प। ३५७९, सू।मु। ५८।६)
जल्पन्त्याः परुषं रुषा मम बलाच् चुम्बत्य् असाव् आननं
मृद्गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन् ।
आलीनां पुरतो दधाति शिरसा पादप्रहारांस् ततो
नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥८८८॥
रुद्रटस्य । (शृ।ति। १।२८अ)
दृष्टा मुष्टिभिर् आहता हृदि नखैर् आचोटिता पार्श्वयोर्
आकृष्टा कवरीषु गाढम् अधरे शीत्कुर्वती खण्डिता ।
त्वत्कृत्यं त्वदगोचरेऽपि हि कृतं सर्वं मयैवाधुना
माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव ॥८८९॥
कस्यचित् । (सु।र। ६७७)
दासे कृतागसि भवेद् उचितः प्रभूणां
पादप्रहार् इति मानिनि नातिदूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्
यद् भिद्यते पदम् इदं तव सा व्यथा मे ॥८९०॥
सत्यबोधस्य । (सा।द। उन्देर् १०।४६, शा।प। ३६५७, सू।मु। ५७।११)