सैवास्य प्रणतिस् तद् एव वचनं ता एव केलिक्रिया
भीतिः सैव तद् एव नर्ममधुरं पूर्वानुरागोचितम् ।
कान्तस्याप्रियकारिणीति भवती तं वक्ति दोषाबिलं
किं स्याद् इत्थम् अहर्निशं सखि मनो दोलायते चिन्तया ॥८७६॥
रुद्रटस्य । (शृ।ति। १।२६अ)
स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुर्
द्यूतैः रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च ।
इत्य् अन्तःपुरसुन्दरीभिर् असकृद् विज्ञापितेन क्रमाद्
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥८७७॥
कस्यचित् । (स।क।आ। ५।३६४, द।रू॥ उन्देर् २।७, सा।द। उन्देर् ३।४२)
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर् न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर् विगमयत्य् उन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचम् उचिताम् अन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस् तदा भवति च व्रीडाविलक्षश् चिरम् ॥८७८॥
कालिदासस्य । (सू।मु। ४२।६, Çअक्। ६।५)
प्रणयि वचनं दीना दृष्टिः शिरोनिहितोऽञ्जलिश्
चरणपतनं देव्याः सन्ति प्रसादनहेतवः ।
कुसुमविशिखज्वालातापस्फुटन् मृदुमानसा
वरतनुर् असौ येन प्राप्या स एव तु नास्ति मे ॥८७९॥
उमापतिधरस्य ।
वाचः परं भजन्त्य् एता देवि प्रणयचातुरीम् ।
हृदयस्य तु सर्वस्वं त्वम् एवैकप्रिया मम ॥८८०॥
तस्यैव ।