इमां विधातुं भुजवल्लि मुज्ज्वलां
गृहीतसारं विधिना नतभ्रुवः ।
कठोरभावप्रियम् एव केवलं
मृणालम् अन्तस्तरलं कुतोऽन्यथा ॥८४६॥
दूनोकस्य ।
किं स्यात् फलं स्फुटम् अधूकमयेन दाम्ना
का वार्थिता विकचचम्पकमालया मे ।
धिक् तां च काञ्चनसरोजमृणालनालां
लीलाभुवो भुजलता ललितास्तु सैव ॥८४७॥
कविकुसुमस्य ।
दयिता बाहुपाशस्य कुतोऽयम् अपरो विधिः ।
जीवयत्य् अर्पितः कण्ठे मारयत्य् अपवर्जितः ॥८४८॥
कश्मीरकश्यामलस्य । (स्व् १५२९, शा।प। ३३३०, सू।मु। ५३।४०)
सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथम् आजह्रतुः श्रियम् ॥८४९॥
बिल्हणस्य । (व्च् ८।६४)
बाहू तस्याः कुचाभोग
निषिद्धान्योन्यदर्शनौ ।
मन्त्रितं कथम् एताभ्यां
मृणालीकीर्तिलुण्ठनम् ॥८५०॥
तस्यैव । (व्च्। ८।६६)