०७३ वदनम्

यद् अपि विबुधैः सिन्धोर् अन्तः कथञ्चिद् उपार्जितं
तद् अपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते ।
सुरसुमनसः श्वासामोदे शशी च कपोलयो
रमृतम् अधरे तिर्यग्भूते विषं च विलोचने ॥८३६॥

लक्ष्मीधरस्य । (सु।र। ४०१, सू।मु। ५३।३१)

जनानन्दश् चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोऽवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् ।
भ्रुवोर् लीलां बालः श्रियम्म् अलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥८३७॥

मुरारेः । (सू।मु। ५३।३३)

तस्पस्यतीव शीतांशु
स्त्वन्मुखेन्दुजिगीषया ।
कृशः शम्भुजटाजूट
तटिनीतटम् आश्रितः ॥८३८॥

कस्यचित् । (सु।र। ४६०)

प्रत्यासन्नविदूरवर्तिविषयेऽमुष्मिन् द्विचन्द्रभ्रमे
मुख्या चन्द्रमतिर् मुखे तव निरालम्बैव तु व्योमनि ।
भुङ्क्त्वासौ हरिणः सदा जनभयात् तत्रैव लीनः प्रिये
नैवं चेत् कथम् एव यस्य जठरे तस्यैव लोले दृशौ ॥८३९॥

शब्दार्णवस्य ।

कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं
मैत्रं मण्डलम् उज्ज्वलं चिरम् अधोनीतास् तथा कण्टकाः ।
इत्य् आकृष्टशिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं
यत्पद्मेन जिगीषुणापि न जितं मुग्धे तवेदं मुखम् ॥८४०॥

कस्यचित् । (सु।र। ४४५, स्व् १५२३, शा।प। ३३२२)