अयम् अक्षुण्णकान्तश्री
रधरो हरिणीदृशः ।
प्रवालपद्मरागादे
रुपरि प्रतिगर्जति ॥८३१॥
धर्माशोकदत्तस्य ।
अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो
हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
नयनमधुपश्रेणीं यूनाम् अनारतम् आहरं
स्तरुणि तनुते तारुण्यश्रीर् विलासवतंसताम् ॥८३२॥
जलचन्द्रस्य ।
अयं ते विद्रुमच्छायो मरुदेश इवाधरः ।
करोति कस्य नो मुग्धे पिपासातरलं मनः ॥८३३॥
कस्यचित् । (सु।र। ४९२)
विभाति बिम्बाधरवल्लिर् अस्याः
स्मरस्य बन्धूकधनुर् लतेव ।
विनापि बाणेन गुणेन येयं
यूनां मनांसि प्रसभं भिनत्ति ॥८३४॥
जयदेवस्य ।
स्याद् बन्धुजीवनिवहैर् यदि पञ्चबाण
चापश् चलत्कुसुमकेशरचामराङ्कः ।
स्याद् एव तेन तुलना तरुणि त्वदीय
बिम्बाधरस्य मधुरस्मितभावितस्य ॥८३५॥
शङ्करदेवस्य ।