०७१ कर्णः

त्यक्तादरो धनुषि सौमनसे वरोरु
नीराजितः सुतनु नैष निजैः पृषत्कैः ।
बध्नन्न् अभून् नयनकालमृगान् इदानीं
त्वत्कर्णपाशयुगवागुरिको मनोभूः ॥८२६॥

गोपीकस्य ।

अहह किम् अधुना मुधैव बध्नास्य्
अनुचितकारिणि कर्णदन्तपत्रम् ।
ननु तव चटुलभ्रुकर्णपालिर्
भुवनविलोचनकालसारपाशः ॥८२७॥

तस्यैव ।

किं पत्रभङ्गरुचिजालम् इदं कपोले
त्वत्कर्णयोः सुदति सारित एष पाशः ।
कश्चित् त्व् अवत्य् अपि किम् उत्पतितो नितम्बांस्
त्वन्मध्यदेशदवम् ईक्षणकालसारः ॥८२८॥

तस्यैव ।

स्मरशरधिनिकाशं कर्णपाशं कृशाङ्गी
रयविगलितताडीपत्रताडङ्कम् एकम् ।
वहति हृदयचोरं कुङ्कुमन्यासगौरं
वलयितम् इव नालं लोचनेन्दीवरस्य ॥८२९॥

कस्यचित् । (सु।र। ५२४)

सम्भोगभृष्टताडङ्कः
कर्णस् तस्या विराजते ।
नेत्रनीलोत्पलस्येव
नालकं द्विगुणीकृतम् ॥८३०॥

विक्रमादित्यकालिदासयोः ।