यत् त्रैलोक्यमनोरथस्य परमं पात्रं मनोजन्मना
यच् चास्त्रं हरनिर्जितेन जगतीं जेतुं चिराद् अर्जितम् ।
यन् मे श्रोत्ररसायनं कथम् अहो प्राप्तं तद् एतन् मया
रूपं लोचनपीयमानविगलल्लावण्यपूरं वपुः ॥८११॥
कालिदासस्य ।
दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः
सङ्क्षिप्तं निविडोन्नतस्तनम् उरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिम् इतो नितम्बि जघनं पादाव् उदग्राङ्गुली
छन्दो नर्तयितुर् यथैव मनसः सृष्टं तथास्या वपुः ॥८१२॥
तस्यैव । (मालविकाग्निमित्र २।३, द।रू॥ ४।४८, स्द् ३।१६)
बिम्बोष्ठाय नमस्करोति चकिता बन्धूकपुष्पद्युतिः
कार्पण्यं तनुते न किं स्मरधनुर् दीनं भ्रुवोर् अग्रतः ।
आज्ञां मूर्धभिर् उद्वहन्ति कमलान्य् अक्ष्णोर् मृगाक्ष्याः स्फुटं
किं चान्यद्वदनस्य धावति पुरो बद्धाञ्जलिश् चन्द्रमाः ॥८१३॥
पुरुषोत्तमदेवस्य ।
लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः
स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।
एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता
कोऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥८१४॥
धर्मकीर्तेः (कुवल्। १००, सु।र। ४५४)
लावण्यद्रवकल्पम् एव कनकं वक्त्रस्य नीराजना
पिण्डश्रीः शशभृद्दृग् एव नयनद्वन्द्वस्य नीलोत्पलम् ।
भ्रूवल्लीं किम् उदाहरामि यद् अवच्छेदो धनुर् मान्मथं
तत्पीयूषभुजामरोचकचमत्कारि स्मितं सुभ्रुवः ॥८१५॥
करञ्जमहादेवस्य ।