०६७ स्वैरिणीप्रलापः

देवो रविर् वा प्रणिपत्य याच्यः
कालक्रमान् मण्डलम् आगतस्य ।
परः सहस्राः शरदो विधेयास्
त्वयातिथेयी मृगलाञ्छनस्य ॥८०६॥

कस्यचित् ।

शीतमधुरम् अपि गलितं
वमति विधुं व्याधिना येन ।
शमयति यस् तं राहोः सखि
भिषजस् तस्य दासी स्याम् ॥८०७॥

धर्मपालस्य ।

अस्मिन् करीन्द्रकरनिर्गलितारविन्द
कन्दानुकारिणि चिरं रुचिचक्रवाले ।
कस्मै फलाय कुलटाकुलकोटिहोमं
हंहो मृगाङ्क कुरुषे करुणामपास्य ॥८०८॥

सुभटस्य ।

निष्पीयांशुपयः पयोरुहरिपोश् चक्रुश् चकोरा इमे
यन् नाद्यापि कलङ्कपङ्किलकलाकङ्कालशेषं वपुः ।
सैषा किं कविकल्पना सखि किम् उ स्वैराङ्गनादुष्कृतैर्
एभ्यः कान्तिकलापपानपटिमव्युत्पत्तिर् उद्वासिता ॥८०९॥

तस्यैव ।

यन् मृत्युञ्जयमौलिरत्नम् अमृतप्रस्यन्दिसान्द्रच्छविर्
ज्यायान् मन्त्रविदां महार्णवमणिश्रेणिसकुल्याग्रणीः ।
प्रेयान् ओषधिमण्डलस्य वहति क्षीणं वपुर् यः क्षणात्
तत्रैते विलसन्ति पुत्रि कुलटासत्कर्मणां मूर्तयः ॥८१०॥

जलचन्द्रस्य ।