पङ्के नूपुरशिञ्जितस्य गरिमा मग्नः क्वणन्मेखला
जल्पाकी जघनस्थली जलमुचां नादैर् निषिद्धाधिकम् ।
दोर्वल्लीवलयांशवश् च शमिताः सौदामिनीविभ्रमैर्
वर्षारात्रिविभूषितिभिस् तव सखि क्षीणोऽन्तरायः क्षणात् ॥८०१॥
सुभटस्य ।
असूचीसञ्चारे तमसि नभसि प्रौढजलद
ध्वनिप्राज्ञम्मन्ये पतति पृषतानां निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥८०२॥
तस्यैव ।
धावति चेतो न तनुर् धाराधौतोऽधरो हृदि न रागः ।
इह रमणम् अभिसरन्त्याः स्खलति गतिर् न त्व् अवष्टम्भः ॥८०३॥
अमरोः ।
प्राणेशम् अभिसरन्ती मुग्धा पथि पङ्किले स्खलन्तीव ।
अवलम्बनाय वारां धारासु करं प्रसारयति ॥८०४॥
धरणीधरस्य । (शा।प। ३६१२)
मत्पाणाव् अपसव्यम् अर्पय करं सव्यं च काञ्च्यां कुरु
प्रोत्कुञ्चाग्रम् अमू निधेहि चरणाव् उत्पङ्किले वर्त्मनि ।
मा पुत्रि त्रस पश्य वर्त्म कतिचिद् विस्फार्य चक्षुः क्षणान्य्
आवल्लेढि तडिल्लता तत इतः पिण्डावलेह्यं तमः ॥८०५॥
चन्द्रज्योतिषः ।