०६५ ज्योत्स्नाभिसारिका

शशधरकरस्पर्धामुग्धं विधाय विभूषणं
किम् इति वलितग्रीवं मुग्धे मुधैव विलोक्यते ।
कृतम् अपि कृअं नेदं दूति प्रतीहि न माम् इयं
सहजम् अलिना देहच्छाया विमुञ्चति वैरिणी ॥७९६॥

केशवकोलीयनाथोकस्य ।

मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः
सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धराम् अविभाव्यतां गताः
प्रियवसतिं व्रजन्ति सुखम् एव मिथो निरस्तभियोऽभिसारिकाः ॥७९७॥

बाणस्य । (सु।र। ८३२)

मौलौ मौक्तिकदाम केतकदलं कर्णे स्फुटत्कैरवं
ताडङ्कः करिदन्तजः स्तनतटीकर्पूररेणूत्करः ।
कण्ठो निस्तलतारहारवलयी शुभ्रं तनीय्ॐशुकं
ज्योत्स्नायाम् अभिसारसम्पदम् इमां पञ्चेषुर् अप्य् अञ्चति ॥७९८॥

कस्यचित् ।

नवधौतधवलवसनाश् चन्द्रिकया सान्द्रया तिरोगमिताः ।
रमणभवनान्य् अशङ्कं सर्पन्त्य् अभिसारिकाः सपदि ॥७९९॥

कस्यचित् ।

इतः प्रालेयांशुः प्रलयम् अकरोत् कैरवकुल
क्लमच्छेदोत्सेकैः किरणनिकरैर् एष तमसाम् ।
इतोऽप्य् आज्ञावज्ञां सखि न सहते दुःसहतर
प्रतापः पञ्चेषुस् तद् इह शरणं साहसरसः ॥८००॥

सुभटस्य ।