खद्योतोत्करदन्तुरान्धतमसोत्सङ्गेन मा गाः सखि
स्वैरं नूपुरजागरूकचरणौ दुःशिक्षिते रोपय ।
न्यञ्चच्चोलचलाचलेन तरले हारस्रजं निष्पिधाः
प्राप्तः पुत्रि स एष नीलनिचुलक्रीडालतामण्डपः ॥७९१॥
पायीकस्य ।
मौलौ श्यामसरोजदाम नयनद्वन्द्वेऽञ्जनं कर्णयोस्
तापिञ्छप्रसवः कपोलफलके कस्तूरिकापल्लवः ।
विश्वालोकविलोपि निन्दितम् अपि प्रेयोभिसाराशया
हृष्यद्भिः स्मरदुर्विनीतवनितास्तोमैस् तमो मन्यते ॥७९२॥
उमापतिधरस्य ।
वासो बर्हिणकण्ठमेदुरम् उरो निष्पिष्टकस्तूरिका
पत्रालीमयम् इन्द्रनीलवलयं दोर्वल्लिर् आसेवते ।
निर्यान्ती च लघुस्खलत्पदम् इदं ध्वान्तं न यन् मन्यसे
तद् यूना मदिराक्षि केन सुचिराद् आराधि पुष्पायुधः ॥७९३॥
आवन्तिकजह्नोः ।
प्रयासि यत् कुण्डलचक्रधारया
विपाटयन्तीव घनं निशातमः ।
तद् अद्य कर्णायतलोचनोत्पले
फलेऽग्रहिः कस्य मनोरथद्रुमः ॥७९४॥
धोयीकस्य ।
इह निशि निबिडनिरन्तर
कुचकुम्भद्वितयदत्तहृदयभरा ।
रमणगुणकृष्यमाणा
सन्तरति तमस्तरङ्गिणीं कापि ॥७९५॥
अमरोः ।