अवलोक्य नर्तितशिखण्डिमण्डलैर्
नवनीरदैर् निचुलितं नभस्तलम् ।
दिवसेऽपि वञ्जुलनिकुञ्जमित्वरी
विशति स्म वल्लभवतंसितं रसात् ॥७८६॥
सुभटस्य ।
सान्द्रेषु चम्पकवनेषु विनिद्रपुष्प
पङ्क्तिप्रकाशितपरागपिशङ्गितेषु ।
मध्यन्दिनेऽपि रमणी रमणाभिसार
बुद्धिं बभार कनकाभरणं भजन्ती ॥७८७॥
तस्यैव ।
दिवापि जलदोदयाद् उपचितान्धकारच्छटा
जटालिततटीम् इमां विशति विस्मरन्ती भयम् ।
तमालतरुणमण्डितावटनिरस्तभानुद्युतिं
धृताभिसरणव्रता शवरसुन्दरी कन्दरीम् ॥७८८॥
कालिदासस्य ।
मध्याह्ने द्विगुणार्कदीधितिदलत्सम्भोगवीथीपथ
प्रस्थानव्ययितारुणाङ्गुलिदलं राधापदं माधवः ।
मौलौ स्रक्शबले मुहुः समुदितस्वेदे मुहुर् वक्षसि
न्यस्य प्राणयति प्रकम्पविधुरैः श्वासोर्मिवातैर् मुहुः ॥७८९॥
आचार्यगोपीकस्य ।
दिवसेऽपि धूममहिषी
वाद्योत्सवदुर्दिनेषु मिलितायाः ।
नाकृतपुण्यः पश्यसि
रहसि मुदा वदनक्रमम् एणाक्ष्याः ॥७९०॥
उमापतिधरस्य ।