निविड्य कुचयोर् निचोलबन्धं
रचय लघूनि कियन्तिचित् पदानि ।
निजपतिचिरभोगपातकाना
मुपशमतीर्थम् अयं स ते निकुञ्जः ॥७८१॥
चूडामणेः ।
अभिसरणरसः कृशाङ्गयष्टे
रयम् अपरत्र न वीक्षितः श्रुतो वा ।
अहिम् अपि यद् इयं निरास नाङ्घ्रे
र्निविडितनू पुरम् आत्मनीनबुद्ध्या ॥७८२॥
धूर्जटेः । (सू।मु। ७१।९)
उरसि निहितस् तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥७८३॥
अमरोः । (अमरु २८, द।रू। २।२७ब्, स्व् १९४७, शा।प। ३६१३, स।क।आ।म् ८३५)
किं न्व् आवृणोषि कवरीं सखि किं नु काञ्चीं
बध्नासि वर्मयसि किं कुचयोर् निचोलम् ।
सोत्कण्ठकान्तसुभगाध्युषितोपकण्ठा
प्राप्ता पुरः सुरतसङ्गररङ्गभूमिः ॥७८४॥
धर्मयोगेश्वरस्य ।
वस्त्रप्रोतदुरन्ततनू पुर्मुखाः संयम्य नीवीमणी
नुद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः ।
एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली
झङ्कारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः ॥७८५॥
कस्यचित् । (सु।र। ८२९)