पतिर् दुर्वञ्चोऽयं विधुरमलिनो वर्त्म विषमं
जनश् छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम् ।
अतः काचित् तन्वी रतिविदितसङ्केतगतये
गृहाद् वारं वारं निरसरद् अथ प्राविशद् अथ ॥७७६॥
कस्यचित् । (सु।र। ८३०)
मन्दं निधेहि चरणौ परिधेहि नीलं
वासः पिधेहि वलयावलिम् अञ्चलेन ।
मा जल्प साहसिनि शारदचन्द्रकान्ति
दन्तांशवस् तव तमांसि समापयन्ति ॥७७७॥
नालस्य । (पद्या॥ १९४; शा।प। ३६२०, सू।मु। ७१।८ हरिहरस्य)
उत्क्षिप्तं सखि वर्तिपूरितमुखं मूकीकृतं नूपुरं
काञ्चीदाम निवृत्तघर्घररवं क्षिप्तं दुकूलान्तरे ।
सुप्ताः पञ्जरसारिकाः परिजनोऽप्य् आघूर्णितो निद्रया
शून्यो राजपथस् तमांसि निविडान्य् एह्य् एहि निर्गम्यताम् ॥७७८॥
योगेश्वरस्य ।
सखी निर्वैलक्ष्या स च सहचरोऽत्यन्तचपलः
कृतो मुग्धे दुग्धे किम् इति वृषदंशः प्रहरिकः ।
सुवर्णं स्वं चक्षुः फलति न विलम्बस्व कुलटा
कुलोत्पातः शातक्रतवम् अचलं चुम्बति शशी ॥७७९॥
मित्रस्य ।
मुञ्चत्य् आभरणानि दीप्तमुखराण्य् उत्तंसम् इन्दीवरैः
कुर्वाणा दधती मुहुर् मृगमदक्षोदानुलिप्तं वपुः ।
कालिन्दीजलवेणिनीलमसृणं चीनांशुकं बिभ्रती
मुग्धे त्वं प्रकटीकरोष्य् अविनयारम्भं वृथा निह्नवः ॥७८०॥
लक्ष्मणसेनदेवस्य ।