गतोस्तं तिग्मांशुर् व्रज सहचरीनीडम् अधुना
सुखं भ्रातः सुप्याṚ स्वजनसदृशं वायस कृतम् ।
मयि स्नेहाद् बाष्पस्थगितरुचिदृष्टौ सकरुणं
रुदत्यां यो यातस् त्वयि स विलपत्य् एष्यति कथम् ॥७६६॥
कस्यचित् । (स्व् ११४०)
दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं
द्वारोपान्ते गतदयितया सङ्गमान्वेषणाय ।
वक्रग्रीवश् चलनतशिराः पार्श्वसञ्चारिनेत्रः
पाशाशङ्की गलितवलयाक्रान्तम् अश्नाति काकः ॥७६७॥
कस्यचित् ।
वारं वारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यता
मित्य् उद्गम्य सुमन्दबाहुलतिकाम् उत्थापयन्त्या रुषा ।
सङ्क्रान्तैर् वलयैर् अलङ्कृतगलो युष्मद्वियोगोचितां
तन्वङ्ग्याः प्रकटीकरीति तनुताम् अङ्गे भ्रमन् वायसः ॥७६८॥
कस्यचित् । (सु।र। ७३२)
यत् पुष्णासि पिकानकारणरिपून् अध्वन्य् अवामभ्रुवां
यच् चाच्छिद्य बलिं विलुम्पसि करात् सर्वं सहिष्ये तव ।
हंहो मद्वचनादितस् त्वयि गते शाखान्तरं वायस
क्षेमेणाद्य समागमिष्यति स चेत् कान्तश् चिरं प्रोषितः ॥७६९॥
धोयीकस्य ।
उल्लासो विरुतेन मङ्गलबलिग्रासेन विश्वासनं
सञ्चारेण कृतो विलोचनयुगे बाष्पोद्गमावग्रहः ।
यातोऽस्तम् रविर् एष सम्प्रति पुरः स्वस्त्य् अस्तु ते गम्यताम्
एते त्वाम् अनुयान्तु सम्प्रति मम प्राणाः प्रियान्वेषिणः ॥७७०॥
जलचन्द्रस्य ।