अविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया
वचनविषयः सन्देशोऽन्यस् तया विहितो न ते ।
मनसि किम् अपि ध्यायन्त्या तु क्षणं तव कान्तया
पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥७५६॥
धर्मपालस्य ।
पक्ष्माग्रस्खलिताश्रुधौतवलया निष्पन्दतारेक्षणा
बिभ्राणा करपल्लवेन सततं क्षामं कपोलस्थलम् ।
सेदानीं लिखितेव काम् अपि गतावस्थां सखीभिश् चिराद्
आसन्नावधिवासरप्रकटितप्रत्याशयाश्वास्यते ॥७५७॥
कस्यचित् ।
विच्छिन्नेऽवधिवासरे क्षणम् अथ त्वद्वर्त्मवातायनं
वारं वारम् उपेत्य निर्घृणतया निश्चित्य किञ्चित् ततः ।
सम्प्रत्य् एव निवेद्य केलिकुररीः सास्रं सखीभ्यः शिशोर्
माधव्याः सहकारकेण करुणः पाणिग्रहः कल्पितः ॥७५८॥
कस्यचित् ।
निपतति शयने तव स्मरन्ती
पथिकवधूर् अवधूतजीविताशा ।
जलधरसमयस्य केतुभूतां
वकुललताम् अवलोक्य पुष्पिताग्राम् ॥७५९॥
कस्यचित् ।
आदूरात् प्रतिपान्थम् आहितदृशः प्रत्याशयोन्मीलति
ध्वान्ते स्वान्तम् अहर् व्ययेऽपि न परावृत्तं कुरङ्गीदृशः ।
तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद् भङ्गुर
ग्रीवं दीर्घम् अजीववत् प्रियसखीवर्गेण नीतं वपुः ॥७६०॥
कस्यचित् ।