द्वारस्तम्भनिषण्णया दयितया वक्रीकृतग्रीवया
नासाग्रागतवारिबिन्दुविसरैः संसिच्यमानाङ्गया ।
मन्युस्तम्भितकण्ठगद्गदगिरा प्रोच्चारितार्धाक्षरं
सन्दिष्टं तव कान्तया पथिक तद् वक्तुं न यत् प्रार्थये ॥७५१॥
तुतातितस्य ।
नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो
नोपालम्भपदानि वाप्य् अकरुणे तत्राभिधेयानि ते ।
प्रष्टव्यः शिवमालि केवलम् असौ कच्चिद् भवद्गोचरे
नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति ॥७५२॥
वाक्कूटस्य । (सु।र। ७२५)
कुटजकटवो घ्राता वाताः श्रुतं घनगर्जितं
निशि निशि मुहुः शून्ये तल्पे कृतः शयनश्रमः ।
अवधिगणना रेखा पूर्णाः कृता गृहभित्तयो
न तव सविधं प्राणाः प्राप्ता न वा त्वम् इहागतः ॥७५३॥
कस्यचित् ।
विज्ञप्तिर् एषा मम जीवबन्धो
तत्रैव नेया दिवसाः कियन्तः ।
सम्प्रत्य् अयोग्यस्थितिर् एष देशः
करा हिमांशोर् अपि तापयन्ति ॥७५४॥
विज्जाया गणपतेः ।
गन्तासि चेत् पथिक हे मम यत्र कान्तस्
तत्त्वं वचो हर शुचौ जगताम् असह्यः ।
तापः सगर्जगुरुवारिनिपातभीतस्
त्यक्त्वा भुवं विरहिणीहृदयं विवेश ॥७५५॥
लडहचन्द्रस्य ।