०५५ सखीं प्रति प्रोषितभर्तृकावचनम्

अवधिदिवसः प्राप्तश् चायं तनोर् विरहस्य वा
रविर् अयम् उपैत्य् अस्तं सख्यो ममापि च जीवितम् ।
तद् अलम् अफलैर् आशाबन्धैः प्रसीद नमोऽस्तु ते
हृदय सहसा पाकोत्पीडं विडम्बय दाडिमम् ॥७४६॥

अभिमन्योः । (सू।मु। ४०१९)

गर्जत्य् एकः परभृतयुवा पञ्चमध्वानगर्भं
वाति स्वैरं मलयपवनो दूरतो जीवितेशः ।
एह्य् आलिङ्ग प्रियसखि पुनः क्वावयोर् दर्शनं स्यात्
प्रत्यासन्नं मरणम् असवः कण्ठदेशे लुठन्ति ॥७४७॥

कस्यचित् ।

अवधिदिवसः सोऽयं नात्रागतः किम् इयत् क्षणं
वितर नयने पश्यैतन् मे पुरः सखि साहसम् ।
इयम् इयम् अहं रूढज्वालाकरालितरोदसीं
मलयजरसाभ्यक्तैर् अङ्गैः पताम्य् अभि कौमुदीम् ॥७४८॥

गोसकस्य ।

दृष्टं केतकधूलिधूसरम् इदं व्योम क्रमाद् वीक्षिताः
कच्चान्ताश् च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः ।
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला
एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥७४९॥

रुद्रटस्य । (शृ।ति। २।६०अ; पद्या। ३२७)

प्रसर शिशिरामोदं कौन्दं समीर समीरय
प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस ।
अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां
हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति ॥७५०॥

तस्यैव । (शृ।ति। २।५८ए, सू।मु। ४०।१८; पद्या। ३३४)