मध्ये वेश्म समुद्गता तद् अनु च द्वारान्तरालं गता
निर्याताथ कथञ्चिद् अङ्गणभुवं प्रेयांस् तु नालोकितः ।
हंहो वायस राजहंस शुक हे हे सारिके कथ्यतां
का वार्तेति मृगीदृशो विजयते बाष्पाम्बुगर्भं वचः ॥७३६॥
महोदधेः । (सु।र। ७१८)
अस्तव्यस्तसमीरकम्पिततया दृष्टेस् तिरस्कारिणीं
हस्तेनालकवल्लरीम् अकुटिलाम् आनीय कर्णान्तिकम् ।
उद्वीक्ष्य प्रियमार्गम् अध्वगवधूर् अस्तं गते भास्वति
छिन्नाशा स्वनिवेशम् एति शनकैः स्वप्नेक्षणाशंसिनी ॥७३७॥
कस्यचित् ।
अभ्यासस्थितचूतषण्डगहनस्थानादितो गेहिनी
ग्रामं कञ्चिद् अवृक्षकं विरहिणी तूर्णं वधूर् नीयताम् ।
अत्रायान्त्यचिरेण कोकिलकुलव्याहारझङ्कारिणः
पन्थस्त्रीजनजीवितैकहरणप्रौढाः पुरो वासराः ॥७३८॥
कस्यचित् ।
सौख्ये गते प्रवसता दयितेन सार्धं
नेत्रद्वये दयितमार्गगमान् निवृत्ते ।
व्रीडावती बत कृता हतजीवितेन
निर्याय यन् न पद्मात्रम् अपि प्रयातम् ॥७३९॥
कस्यचित् ।
वत्से माधवि मुग्धिकासि बलवद् वन्यौकसो देवताः
पान्तु त्वाम् अयम् अस्तम् अञ्चति रविर् यातोऽवधिस् ते पितुः ।
शान्तं पापम् अमङ्गलं परम् अतः शान्त्या न कल्याणि मे
कल्यन् नव्यमधुव्रताय तुय् मधून्य् उद्दिश्य मे दास्यसि ॥७४०॥
कस्यचित् ।