०५० मानभङ्गः

दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रवन्
न्यग्भूतं बहिर् आसितं पुलकवत् स्पर्शं समातन्वति ।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो
मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥७२१॥

कस्यचित् । (स।क।आ।व् १५।४९६, शा।प। ३५८१, सू।मु। ५८।२, सु।र। ६९९)

चेतस्य् अङ्कुरितं विसारिणि दृशोर् द्वन्द्वे द्विपत्रायितं
प्रायं पल्लवितं वचस्य् उपचितं प्रौढं कपोलस्थले ।
तत्तत्कोपविचेष्टिते कुसुमितं पादानते तु प्रिये
मानिन्यां फलितं तु मानतरुणा पर्यन्तबन्ध्यायितम् ॥७२२॥

राजशेखरस्य । (सु।र। ६७९)

एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्
अन्योन्यस्य हृदि स्थितेऽप्य् अनुनये संरक्षतोर् गौरवम् ।
दम्पत्योः शनकैर् अपाङ्गवलनान् मिश्रीभवच्चक्षुषोर्
भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥७२३॥

अमरोः (अमरु १९, स्व् २११२, शा।प। ३७१५, सू।मु। ८१।८, सु।र। ६६७)

दूराद् उत्सुकम् आगते विवलितं सम्भाषिणि स्फारितं
संश्लिष्यत्य् अरुणं गृहीतवसने किञ्चिन् नतभ्रूलतम् ।
मानिन्याश् चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर् जातम् अहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥७२४॥

तस्यैव । (अमरु ४४, सू।मु। ५५।३, सु।र। ६४१)

सुतनु जहिहि कोपं पश्य पादानतं मां
न खलु तव कदाचित् कोप एवं विधोऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलम् अनल्पं मुक्तम् उक्तं न किञ्चित् ॥७२५॥

तस्यैव (अमरु ३५, स्व् १६००, शा।प। ३५७७, सू।मु। ५७।३३, सु।र। ६७८)