वलतु तरला धृष्टा दृष्टिः खला सखि मेखला
स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यन्तु कञ्चुकम् ।
तद् अपि न मया सम्भाव्योऽसौ पुनर् दयितः शठः
स्फुटति हृदयं मौनेनान्तर् न मे यदि तत्क्षणात् ॥७०१॥
अमरोः । (सु।र। ६३६)
भ्रूभङ्गे रचितेऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते
कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चम् आलम्बते ।
रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥७०२॥
तस्यैव (अमरु २४; सु।र। ६९५, स्भ् १५८०; उ।नी। ५।२५)
भ्रूभेदो रचितः चिरं नयनयोर् अभ्यस्तम् आमीलनं
रोद्धुं शिक्षितम् आदरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथञ्चिन् मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस् तु दैवस्थिता ॥७०३॥
धर्मकीर्तेः (अमरु ९२; सु।र। ६४५, पद्या॥ २३१)
तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता चान्यतस्
तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
हस्ताभ्याम् अपि वारितः सपुलकः स्वेदोद्गमो गण्डयोः
सख्यः किं करवाणि यान्ति सहसा यत् कञ्चुके सन्धयः ॥७०४॥
अमरोः (अमरु ११, स्व् १५८१, शा।प। ३५३५, सु।र। ६४०)
स्फुटतु हृदयं कामं कामं करतु तनुं तनुं
न सखि चटुलप्रेम्णा कार्यं पुनर् दयितेन मे ।
इति सरभसं मानाटोपाद् उदीर्य वचस् तया
रमणपदवी सारङ्गाक्ष्या सशङ्कितम् ईक्षिता ॥७०५॥
तस्यैव (अमरु ७१ (६१); सु।र। ६६६, सू।मु। ५५।१)