०४५ उदात्तमानिनी

न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलतां
न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् ।
इदं तु प्रेयस्याः प्रथयति रुषोऽन्तर्विलसितं
शतेऽपि प्रश्नानां यद् अभिदुरमुद्रोधरपुटः ॥६९६॥

वैद्यधन्यस्य । (सु।र। ६८८)

ईर्ष्याप्रस्फुरिताधरोष्ठरुचिरं वक्त्रं न मे दर्शितं
साधिक्षेपपदा मनाग् अपि गिरो न श्राविता मुग्धया ।
मद्दोषैः सरसैः प्रतापितमनोवृत्त्यापि कोपोऽनया
काञ्च्या गाढतरावबद्धवसनग्रन्थ्या समावेदितः ॥६९७॥

काश्मीरनारायणस्य । (स्व् १५९१)

भ्रूबेधो न कृतः कृता मुखशशिच्छायापि नायादृशी
कालुष्येण न लम्भिताः कलगिरः कोपस् त्वतो लक्ष्यते ।
यत् प्रागल्भ्यम् अपास्य सम्प्रति नवीभूतं पुनर् लज्जया
यश् चायं विनयादरः प्रणयितां मुक्त्वा महान् वर्तते ॥६९८॥

कस्यचित् ।

आमृद्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पैर्
अन्तर्ध्यानात् त्रुटति च दृशोर् यद्बहिर्लक्ष्यलाभः ।
पक्ष्मोत्क्षेपव्यतिकरहतो यच् च बाष्पस् तद् एते
भावाश् चण्डि त्रुटितहृदयं मन्युम् आवदेयन्ति ॥६९९॥

कस्यचित् ।

यद्यपि श्रियम् आधत्ते भूषणानादरस् तव ।
तथाप्य् अन्तर्गतं मन्युमयं कथयतीव मे ॥७००॥

कस्यचित् ।