०४४ मानिनी

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते ॥६९१॥

अमरोः (अमरु ५३; द।रू। २।१७; स्व् १६१४, शा।प। ३५५४, सू।मु। ५७।१, सु।र। ६५३)

एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद् दूरतस्
ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके
कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥६९२॥

तस्यैव (अमरु १७, सु।र। ६३९, स्व् १५८३, शा।प। ३५३४, सू।मु। ५५।६, द।रू। २।१९, रस्क् २।६७ग्)

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्
व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवचनं सख्या सहाभाषते
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥६९३॥

तस्यैव (स्व्। १५९०, शा।प। ३५३७, सू।मु। ५५।११)

धूमायते मनसि मूर्च्छति चेष्टितेषु
सन्दीप्यते वपुषि चेतसि जाज्वलीति ।
वक्त्रे परिस्फुरति वाचि विजृम्भतेऽस्याः
कान्तावमानजनितो बहुमानवह्निः ॥६९४॥

कस्यचित् ।

बाष्पासारः कथयति भृशं गण्डयोः पाण्डिमानं
श्वासो भूम्ना स्तनकलसयोः पीनताम् आतनोति ।
चित्तौत्सुक्यं किम् अपि कुरुते क्षामम् अङ्गं तद् अस्यास्
तारुण्यस्य प्रसम् अधिकं मन्युर् आविष्करोति ॥६९५॥

कस्यचित् ।