पुरस् तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात् किम् अपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथम् अपि स तादृक् परिणतो
गता येन व्यक्तं पुनर् अवयवैः सैव तरुणी ॥६८६॥
अमरोः (अमरु ४६)
कृथा मैवं चेतः कथम् अपि मनाग् अस्खलद् इतः
प्रमादाद् वाणीयं किम् इह करवाणि प्रणयिनि ।
वृथैवायं ग्रन्थिर् झणझणितमञ्जीररणितं
ततस् त्वत्पादाब्जं यद् इदम् अवतंसो भवतु मे ॥६८७॥
नरसिंहस्य ।
अर्धोक्ते भयम् आगतोऽसि किम् इदं कण्ठश् च किं गद्गदश्
चाटोर् अस्य न च क्षणोऽयम् अनुपक्षिप्तेयम् आस्तां कथा ।
ब्रूहि प्रस्तुतम् अस्तु सम्प्रति महत् कर्णे सखीनां मुखैस्
तृप्तिर् निर्भरम् एभिर् अक्षरपदैः प्राग् एव मे सम्भृता ॥६८८॥
अभिनन्दस्य । (सू।मु। ५७।२६)
कथम् अपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजं प्रकल्पितम् अश्रुतम् ।
असहनसखीश्रोत्रप्राप्तिं विशङ्क्य ससम्भ्रमं
विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥६८९॥
कस्यचित् । (अस् ६३)
दूराद् एत्य दृशा निवार्य च सखीर् उत्क्षिप्तदोःकङ्कण
श्रोणिः सप्रणया पिधाय नयनद्वन्द्वं तवावस्थिता ।
ज्ञातासीति विपक्षनाम गदता सम्भाविता सा त्वया
जीवत्य् एव यदि त्वरां त्यज ननु त्वाम् एव याचिष्यते ॥६९०॥
आचार्यगोपीकस्य ।