०४२ कलहान्तरितासखीवचनम्

अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदस्
त्वयाकाण्डे मानः किम् इति सरले प्रेयसि कृतः ।
समाकृष्टा ह्य् एते विरहदहनोद्भासुरशिखाः
स्वहस्तेनाञ्गारास् तद् अलम् अधुनारण्यरुदितैः ॥६८१॥

अमरोः (अमरु ६६; स्भ्व् ११७०; सू।मु। ५६।९, सु।र। ६५९)

मया प्राग् एवोक्तं कलहवति मा त्याजय गुणं
भयेस् तु प्रेयांस् ते स्वकरवशगं मुञ्चसि मुधा ।
अवाप्तो वैलक्ष्यं शर इव पुनर् नैति तद् अयं
स्वयं गत्वानेयः प्रियसखि कराकर्षविधिना ॥६८२॥

आचार्यगोपीकस्य ।

श्रवसि न कृतास्ते तावन्तः सखीवचनक्रमा
श्चरणपतितोङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः ।
कठिनहृदये मिथ्यामौनव्रतव्यसनाद् अयं
परिजनपरित्यागोपायो न मानपरिग्रहः ॥६८३॥

कस्यचित् । (सु।र। ६८७)

जघनम् उन्नतम् आकुलमेखलं
मुखम् अपाङ्गविसर्पिततारकम् ।
इदम् अपास्य गतो यदि निर्घृणो
ननु वोरोरु स एव हि वञ्चितः ॥६८४॥

कस्यचित् । (स्व् ११६८)

सखि न गणिता मानोन्मेषात् प्रियप्रणयक्षतिः
परम् इह सखीवर्गस्येदं वचो न पुरस्कृतम् ।
उदयशिखरारूढे नायं कलानिधिना बलात्
किम् इति शिथिलो मानग्रन्थिः करैर् न करिष्यते ॥६८५॥

जलचन्द्रस्य ।