सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा
विधिविरचितं यस्मात् सर्वो जनः सुखम् अश्नुते ।
मम तु मनसः सन्तापोऽयं जने विमुखोऽपि य
त्कथम् अपि हतव्रीडं चेतो न याति विरागिताम् ॥६७६॥
अमरोः । (स्व् १११८, सु।र। ६९४)
निःश्वासा वदनं दहन्ति हृदयं निर्मूलम् उन्मथ्यते
निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।
अङ्गं शोषम् उपैति पादपतितः प्रेयांस् तथोपेक्षितः
सख्यः कं गुणम् आकलय्य दयिते मानं वयं कारिताः ॥६७७॥
कस्यचित् । (अमरु ९८; पद्या॥ २३७, द।रू। २।२६)
ज्योतिर्भ्यस् तद् इदं तमः समुदितं जातोऽयम् अद्भ्यः शिखी
पीयूषाद् इदम् उत्थितं विषमयं छायाप्तजन्मातपः ।
को नामास्य विधिः प्रशान्तिषु भवेद् बाढं द्रढीयान् अयं
ग्रन्थिर् यत् प्रियतोऽपि विप्रियम् इदं सख्यः कृतं सान्त्वनैः ॥६७८॥
कस्यचित् । (स।क।आ। २।६३)
तल्लाक्षालिपिलाञ्छिताद् अपि मुखाद् इन्दुः स किं दुःसहः
सन्तापाय पिकध्वनिः किम् उ मृषा वाचां प्रपञ्चाद् अपि ।
किं तस्य प्रणयावधीरणपराधीनाद् अपि प्रेक्षणाद्
उन्मीलन्ति सखि प्रसूनधनुषो मर्मच्छिदः सायकाः ॥६७९॥
जलचन्द्रस्य ।
कथाभिर् देशानां कथम् अपि च कालेन बहुना
समायाते कान्ते सखि रजनिर् अर्धं गतवती ।
ततो यावल्लीलाकलहकुपितास्मि प्रियतमे
सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ॥६८०॥
कस्यचित् । (सु।र। १६४२)