०४० कलहान्तरिता

कर्णे यन् न कृतं सखीजनवचो यन् नादृता बन्धुवाक्
यत्पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहृतः ।
तेनेन्दुर् दहनायते मलयजालेपः स्फुलिङ्गायते
रात्रिः कल्पशतायते विसलताहारोऽपि भारायते ॥६७१॥

अमरोः । (सु।र। ७०२)

मया तावद्गोत्रस्खलितहतकोपान्तरितया
न रुद्धो निर्गच्छन्न् अयम् इति विलक्षः प्रियतमः ।
अयं त्वाकूतज्ञः परिणतिपरामर्शकुशलः
सखी लीकोऽप्य् आसील् लिखित इव चित्रेण किम् इदम् ॥६७२॥

बिम्बोकस्य । (सू।मु। ८४।४, सु।र। ६५६)

पदोपान्ते कान्ते लुठति तम् अनादृत्य भवनाद्
द्रुतं निष्क्रामन्त्या किम् अपि न मयालोचितम् अभूत् ।
अये श्रोणीभार स्तनभर युवां निर्भरगुरू
भवभ्याम् अन्यत्र विलम्बो न विहितः ॥६७३॥

गङ्गाधरस्य ।

यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो
यत्सख्या न कृतं वचो जडतया यन्मन्युर् एको धृतः ।
पापस्यास्य फलं तद् एतद् अधुना यच् चन्दनेन्दुद्युति
प्रालेयाम्बुसमीरपङ्कजविसैर् गात्रं मुहुर् दह्यते ॥६७४॥

रुद्रटस्य । (शृ।ति। १।७७अ, सू।मु। ५६।१)

दहति विरहेष्व् अङ्गान् ईर्ष्यां करोति समागमे
हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम् ।
क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते
किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः ॥६७५॥

अमरुकस्य । (सु।र। ७३४)