०३८ स्वाधीनभर्ट्र्का

लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं
तिलकम् अलिके कुर्वन् गण्डाद् उदस्यति कुन्तलान् ।
इति चटुशतैर् वारं वारं वपुः परितः स्पृशन्
विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥६६१॥

रुद्रटस्य । (शृ।ति। १।७४अ)

स्वामिन् भङ्गुरयालकं सतिलकं भालं विलासिन् कुरु
प्राणेश त्रुटितं पयोधरतटे हारं पुनर् योजय ।
इत्य् उक्त्वा सुरतावसानसुखिता सम्पूर्णचद्न्रानना
स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर् मोहनम् ॥६६२॥

तस्यैव । (शृ।ति। १।४२च्; स्द् ३।७३, सू।मु। ८०।६)

यावकं तरुणपङ्कजप्रभे
योषितश् चरणपङ्कजद्वये ।
तुल्यरागम् अपि स न्यपातयच्
चाटुमात्रकरणप्रयोजनः ॥६६३॥

कस्यचित् ।

एतांस् ते भ्रमरौघनीलकुटिलान् बध्नामि किं कुन्तलान्
किं न्यस्यामि मधूकपाण्डुमधुरे गण्डेऽत्र पत्रावलीम् ।
किं चास्मिन् व्यपनीय बन्धनम् इदं पङ्केरुहाणां दलत्
कोषश्रीमुषि सर्वचित्तहरिणस्यारोपयामि स्तने ॥६६४॥

सूर्यधरस्य ।

अगणितगुरुर् याच्ञालोलं पदान्तसदातिथिः
समयम् अविदन् मुग्धः कालासहो रतिलम्पटः ।
कृतककुपितं हस्ताघातं त्रपारुदितं हठाद्
अपरिगणयन् लज्जायां मां निमज्जयति प्रियः ॥६६५॥

आचार्यगोपीकस्य ।