अस्मिंश् चन्द्रमसि प्रसन्नमहसि व्यकोपकुन्दत्विषि
प्राचीनं खम् उपेयुषि त्वयि मनाग् दूरे गते प्रेयसि ।
श्वासः कैरवकोरकीयति मुखं तस्याः सरोजीयति
क्षीरोदीयति मन्मथो दृगपि च द्राक् चन्द्रकान्तीयति ॥६५१॥
कस्यचित् । (शा।प। ३४८०, सू।मु। ४४।१०; पद्या। ३५५ भीमभट्टस्य)
अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः
पाथोनिधिः कुसुमचापभृतो विकारः ।
प्रादुर्बभूव सुभग त्वयि दूरसंस्थे
चण्डालचन्द्रधवलासु निशासु तस्याः ॥६५२॥
चण्डालचन्द्रस्य । (सु।र। ५३८)
तापोऽम्भः प्रसृतिं पचः प्रचयवान् बाष्पः प्रणालोचितः
श्वासानर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः ।
किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्वर्त्मवातायने
हस्तच्छत्रनिरुद्धचन्द्रमहसस् तस्याः स्थितिर् वर्तते ॥६५३॥
राजशेखरस्य । (वि।शा।भ। २।२१, सु।र। ५४०)
बाष्पैर् निष्पतयालुभिः कलुषिता गण्डस्थली चिन्तया
चेतः कातरितं तरङ्गितम् उरः श्वासोर्मिभिः पीवरैः ।
इत्थं त्वद्विरहे तदीयविपदं देवई त्रियामैव वा
तल्पं वा परितापखिन्नम् अथवा जानाति पुष्पायुधः ॥६५४॥
शरणस्य ।
निष्पत्रं सरसीरुहां वनम् इदं निश्चन्दना मेदिनी
निष्पङ्कानि पयांस्यपल्लवपुटा वृक्षा सखीभिः कृताः ।
नीयन्ते सुभग त्वया रहितया सोत्कण्ठकोकीकुला
क्रन्दाकर्णनजागरूककुमुदामोदास्तया रात्रयः ॥६५५॥
कस्यचित् ।