०३५ उद्वेगकथनम्

सौघाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं
द्वारात् त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते ।
आस्ते केवलम् अब्जिनीकिसलयप्रस्तारिशय्यातले
सङ्कल्पोपनतत्वदाकृतिर् असायत् तेन चित्तेन सा ॥६४६॥

राजशेखरस्य । (बा।रा। ५।८, स।क।आ।व् २०८, वि।शा।भ। ३।२, सु।र। ७४५)

सोद्वेगा मृगलाञ्छने मुखम् अपि स्वं नेक्षते दर्पणे
त्रस्ता कोकिलकूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः ।
इत्थं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे
मुग्धा सा सुभगे त्वयि प्रतिमुहुः प्रेमाधिकं पुष्यति ॥६४७॥

शृङ्गारस्य । (सु।र। ५३६)

विषं चन्द्रालोकः कुमुदवनवातो हुतवहः
क्षतक्षारो हारः स खलु पुटपाको मलयजः ।
अये किञ्चिद् वक्रे त्वयि सुभग सर्वे कथम् अमी
समं जातास् तस्याम् अहह विपरीतप्रकृतयः ॥६४८॥

अचलसिंहस्य । (सु।र। ५५४)

न क्रीडागिरिकन्दरीषु रमते नोपैति वातायनं
दूराद् द्वेष्टि गुरून् निरस्यति लतागारे विहारस्पृहाम् ।
आस्ते सुन्दर सा सखीप्रियगिराम् आश्वासनैः केवलं
प्रत्याशां दधती तया च हृदयं तेनापि च त्वां पुनः ॥६४९॥

धोयीकस्य ।

हारं पाशवद् आच्छिनत्ति दहनप्रायां न रत्नावलीं
धत्ते कण्ठकशङ्किनीव कलिकातल्पे न विश्राम्यति ।
स्वामिन् सम्प्रति सान्द्रचन्दनरसात् पङ्काद् इवोद्वेगिनी
सा बाला विसवल्लरीवलयतो व्यालाद् इव त्रस्यति ॥६५०॥