दोलालोलाः श्वसनमरुतश् चक्षुषी निर्झराभे
तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः ।
तद्गात्राणां किम् इव हि बहु ब्रूमहे दुर्बलत्वं
येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी ॥६४१॥
राजशेखरस्य । (सु।र। ५५२)
आरब्धा मकरध्वजस्य धनुषैतस्यास् तनुर्वेधसा
त्वद्विश्लेषविशेषदुर्बलतया जाता न तावद् धनुः ।
तत् सम्प्रत्य् अपि रे प्रसीद किम् अपि प्रेमामृतस्यन्दिनीं
दृष्टिं नाथ विधेहि सा रतिपतेः शिञ्जापि सम्जायताम् ॥६४२॥
धोयीकस्य ।
तस्यास् त्वदेकमनसः स्मरबाणवर्षैः
कार्श्यं वपुः शठ बिभर्ति यथा यथैव ।
स्तोकायिताश्रयतयेव तथा तथैव
कान्तिर् घनीभवति लोलविलोचनायाः ॥६४३॥
तस्यैव ।
स्पृशन्त्याः क्षामत्वं मदनशरटङ्कव्यतिकरात्
कुरङ्गाक्ष्यास् तस्याः शृणु सुभग कौतूहलम् इदम् ।
अपूर्वेति त्रस्ता परिहरति तां केलहरिणी
न विश्वेऽप्य् आश्वासं दधति गृहलीलाशकुनयः ॥६४४॥
कस्यचित् । (सू।मु। ४४।१७)
अभवद् अभिनवप्ररोहभाजां
छविपरिपाटिषु यः पुराङ्गकानाम् ।
अहह विरहवैकृते स तस्याः
क्रशिमनि सम्प्रति दूर्वया विवादः ॥६४५॥
तैलपाटीयगाङ्गोकस्य ।