०३२ विरहिणीचेष्टा

त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता
शून्यालिङ्गनसञ्चलद्भुजयुगेनात्मानम् आलिङ्गति ।
किं चान्यद्विरहव्यथाप्रणयिणीं सम्प्राप्य मूर्च्छां चिरात्
प्रत्युज्जीवति कर्णमूलपठितैस् त्वन्नाममन्त्राक्षरैः ॥६३१॥

कस्यचित् । (सु।र। ५५५, शा।प। ३४८७)

अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्व् आहितो
दैन्यं न्यस्तम् अशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता ।
अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते
विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥६३२॥

(अमरु ७८।११०; स्भ्व् १४०७; सू।मु। ४४।२०; शा।प। ३४८६; पद्या। ३६४; दश ४।२७)

पुनरुक्तावधिवासरम् एतस्याः कितव पश्य गणयन्त्याः ।
इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि ॥६३३॥

धरणीधरस्य । (सु।र। ५५८)

अत्रैव स्वयम् एव चित्रफलके कम्पस्खलल्लेखया
सन्तापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् ।
बाष्पव्याकुलम् ईक्षितः सपुलकं चूताङ्कुरैर् अर्चितो
मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥६३४॥

वाक्कूटस्य । (सु।र। ५४९)

दूर्वाश्यामरुचोऽपि चन्दनरसैर् यत् ते लिखत्य् आकृतिं
सोढुं तापम् अनीश्वरा यद् अपि च ग्रीष्मागमं वाञ्छति ।
यत् पुष्णाति निरस्य विभ्रमशुकान् बाला चकोरीकुलं
मूढस् तत्र सखीजनः स्फुरति किं सुस्थस्य मे चेतसि ॥६३५॥

कस्यचित् ।