०३१ पुरुषाभिधानम्

तस्यास् तापम् अहं मुकुन्द कथयाम्य् एणीदृशस् ते कथं
पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि ।
आदौ शुष्यति सङ्कुचत्य् अनु ततश् चूर्णत्वम् आपद्यते
पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतः शिखी ॥६२६॥

कस्यचित् । (सू।मु। ४४।२५; सु।र। ५५३ कस्यचित्; उत्पलराज; पद्या। ३५६ शान्तिकरस्य)

नीरसं काष्ठम् एवेदं सत्यं ते हृदयं यदि ।
तथापि दीयतां तस्यै गता सा दशमीं दशाम् ॥६२७॥

कुब्जराजस्य ।

कुशलं तस्या जीवति कुशलं पृष्टासि जीवतीत्य् उक्तम् ।
पुनर् अपि तद् एव कथयसि मृतां नु कथयामि या श्वसिति ॥६२८॥

शित्तिपस्य । (कुवल्। १६७, स।क।आ। १।९७)

तनुर् लीना तल्पे प्रियसहचरी हस्तकलनान्
निजस्थानेङ्गानि श्वसितम् अपि तस्याः श्रमपदे ।
क्व सा कान्तिर् याता बत न शपथैस् तास्व् अयम् अपि
प्रतीमः स्त्रीहत्या तद् अपि तव चेतो नटयति ॥६२९॥

युवराजदिवाकरस्य ।

धिक् चण्डाल किम् आलपामि मधुपीझङ्कारझङ्झामरुन्
माकन्दाङ्कुरसन्निपातजनितस् तस्याः स कोऽपि ज्वरः ।
ताः सन्तापरुजः स चाङ्गजडिमा साहर्निशं जागरा
त्वय्य् आश्लेषरसेन जीवति पुनस् त्यक्तोऽन्यथा हस्तकः ॥६३०॥

कस्यचित् ।