वल्ली पादपमोचितेव सुतनुः प्रम्लायति प्रत्यहं
निःश्वासाकुटिलालकं करतलोत्सङ्गे मुखं सीदति ।
नासाग्रातिथयो मुहूर्तम् अरुणोच्छूनान्तयोर् नेत्रयोर्
विश्राम्यन्ति न सिन्दुवारमुकुलस्थूलाः पयोबिन्दवः ॥६११॥
बलभद्रस्य ।
कोऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वो
स्तोयास्फालव्यतिकरखणत्कारि कङ्कालम् आस्ते ।
यं ध्यायन्त्याः सुमुखि नियतं कज्जलच्छेदभाञ्जि
व्यालुम्पन्ति स्तनकलसयोः पत्रम् अश्रूण्य् अजस्रम् ॥६१२॥
कस्यचित् । (सु।र। ७३५)
मुक्तानङ्गः कुसुमविशिखान् पञ्च चूर्णीकृताग्रान्
मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन ।
वारां पूरः कथम् इतरथा स्फारनेत्रप्रणाली
वक्रोद्वाहस् त्रिवलिविपिने सारणीसाम्यम् एति ॥६१३॥
राजशेखरस्य ।
पक्ष्मान्ते स्खलिताः कपोलफलके लोलं लुठन्तः क्षणं
धारालास् तरलोच्छलत्तनुकणाः पीनस्तनास्फालनात् ।
कस्माद् ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं
बिभ्राणा निपतन्ति बास् बाष्पपयसां प्रस्यन्दिनो बिन्दवः ॥६१४॥
तस्यैव । (सु।र। ६६३)
कपोलं पक्ष्मभ्यः कलयति कपोलान् स्तनतटं
स्तनान् नाभिं नाभेर् घनजघनम् एत्य प्रतिमुहुः ।
न जानीमः किं नु क्व नु कृतम् अनेन व्यवसितं
यद् अस्याः प्रत्यङ्गं नयनजलबिन्दुर् विहरति ॥६१५॥
नरसिंहस्य । (सु।र। ६८३)