०२७ विरहिणीवचनम्

जलार्द्रां चार्द्रां वा मलयजरसैर् मा मम कृथा
वृथा सद्यः पद्मच्छदनशयनं मापि च विधाः ।
अतीवार्द्रेणायं प्रियसखी शिखी वाडवनिभः
परीतापं प्रेयश् चिरविरहजन्मा जनयति ॥६०६॥

नरसिंहस्य ।

वृथा गाथाश्लोकैर् अलम् अलम् अलीकां मम रुजं
कदाचिद् धूर्तोऽसौ कविवचनम् इत्य् आकलयति ।
इदं पार्श्वे तस्य प्रहिणु सखि लग्नाञ्जनलव
स्रवद्बाष्पोत्पीडग्रथितलिपि ताडङ्कयुगलम् ॥६०७॥

शिल्हणस्य । (सू।मु। ४१।६)

गच्छामि कुत्र विदधामि किम् अत्र कस्मिंस्
तिष्ठामि कः खलु ममात्र भवेद् उपायः ।
कर्तव्यवस्तुनि न मे सखि निश्चयोऽस्ति
त्वां चेतसा परम् अनन्यगतिः स्मरामि ॥६०८॥

कालिदासनन्दिनः ।

सखि मलयजं मुञ्च क्षारं क्षते किम् इवार्प्यते
कुसुमम् अशिवं कामस्यैतत् किलायुधम् उच्यते ।
व्यजनपवनो मा भूच् छ्वासान् करोति ममाधिकान्
उपचितबले व्याधाव् अस्मिन् मुधा भवति श्रमः ॥६०९॥

तस्यैव ।

विरमत विरमत सख्यो
नलिनीदलतालवृन्तपवनेन ।
हृदयगतोऽयं वह्निर् धगिति
कदाचिज् ज्वलत्य् एव ॥६१०॥

कस्यचित् । (शा।प। ३४३२)