०२३ खण्डिता

तव कितव किम् आभिर् वाग्भिर् अभ्यर्णचूत
क्षितिरुहि कलकण्ठालापम् आकर्णयन्ती ।
रजनिम् अहम् अलज्जाजागरं पांशुलानाम्
उषसि विघस न त्वां पाणिनापि स्पृशामि ॥५८६॥

धर्मयोगेश्वरस्य ।

सार्धं मनोरथशतैस् तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्
तस्मात् कृतं चरणपातविडम्बनाभिः ॥५८७॥

रुद्रटस्य । (शृ।ति। १।४१द्; शा।प। ३५६३; सू।मु। ५७।१६; स।क।आ।म् ५८७; पद्या॥ २१८)

पादान्ते पतितः प्रियः पततु न प्रव्यक्तबाष्पोद्गमः
सञ्जातः स न जायतां त्वम् अधुना तद्वक्त्रम् अत्रागता ।
एकाहं तटिनीतटान्तविटपागारे यदा जागरं
नासीत् कापि सखी तदा घनतः स्तोमावृतायां निशि ॥५८८॥

आचार्यगोपीकस्य ।

किं ते बाष्पस् तिरयति दृशो किं सकम्पोऽधरस् ते
गण्डाभोगः कथय किम् उ ते कोपकेलीकषायः ।
निर्यर्यादे मम हि रजनी जागरक्लेशराशेर्
एकः साक्षी स खलु मुरलातीरवानीरकुञ्जः ॥५८९॥

वासुदेवस्य ।

ततश् चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रूढप्रणयकलहाविष्ठमनसा ।
अहो चित्रं चित्रं स्फुटम् इति लपन्त्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५९०॥

अमरुकस्य । (द।रू। ४।१७, स्व् १३२४)