०२१ ग्राम्या

तथाप्य् अकृतकोत्तालहासपल्लविताधरम् ।
मुखं ग्रामविलासिन्यः सकलं राज्यम् अर्हति ॥५७६॥

भर्तृमेण्ठस्य ।

भाले कज्जलबिन्दुर् इन्दुकिरणस्पर्धी मृणालाङ्कुरो
दोर्वल्लीषु शलाटुफेनिलफलोत्तंसश् च कर्णातिथिः ।
धम्मिल्लस् तिलपल्लवाभिषवणस्निग्धः स्वभावाद् अयं
पान्थान् मन्थरयत्य् अनागरवधूवर्गस्य वेशग्रहः ॥५७७॥

चन्द्रचन्द्रस्य ।

न तथा नागरस्त्रीणां विलासा रमयन्ति नः ।
यथा स्वभावमुग्धानि वृत्तानि ग्राम्ययोषिताम् ॥५७८॥

कस्यचित् ।

मञ्चे रोमाञ्चिताङ्गी रतिमृदिततनोः कर्कटीवाटिकायां
कान्तस्याङ्गे प्रमोदाद् उभयभुजपरिष्वक्तकण्ठे निलीना ।
पादेन प्रेङ्खयन्ती मुखरयति मुहुः पामरी फेरवाणां
रात्राव् उत्त्रासहेतोर् वृतिशिखरलतालम्बिनीं कम्बुमालाम् ॥५७९॥

विद्यायाः ।

हलक्षतकरस्पर्शत्रपयेवासिताननम् ।
बिभर्ति सुभगाभोगं ग्राम्यस्त्री स्तनमण्डलम् ॥५८०॥

आचार्यगोपीकस्य ।