प्रपञ्चितकलातन्त्रे पञ्चालीकेलिकर्मणि ।
सर्वास्त्रमोक्षं लभते समं कुसुमकार्मुकः ॥५६६॥
राजशेखरस्य । (बा।रा। १०।८७)
खेलं सञ्चरितुं तरङ्गतरलभ्रूलेखम् आलोकितुं
रम्यं स्थातुम् अनादरार्पितमनोमुद्रं च सम्भाषितुम् ।
सन्त्यज्योज्जयिनीजनीर् विवदितुं हृद्यं च लङ्कापते
प्रत्यङ्गार्पणसुन्दरं च न जनो जानाति रन्तुं पुरः ॥५६७॥
तस्यैव । (बा।रा। १०।८१, सू।मु। १०७।२५)
चकीर्य एव चतुराश् चन्द्रिकापानकर्मणि ।
आवन्त्य एव निपुणाः स्त्रियः सुरतकर्मणि ॥५६८॥
तस्यैव । (स्ब्र् १०।८२, सा।द। उन्देर् १०।६८)
ताडङ्कवल्गनतरङ्गितगण्डलेख
मानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणि गुल्फपरिमण्डलितोत्तरीयं
वेशं नमस्यत महोदयसुन्दरीणाम् ॥५६९॥
कस्यचित् ।
बाहुद्वन्द्वे वलयरचना रक्तकौशेयसूत्रैः
सिन्दूरान्तस्तवकशवला सामि सीमन्तलक्ष्मीः ।
दूर्वाश्यामं तिलकम् अलिके ग्रन्थिलः केशपाशः
प्रीतिं काशीनगरसुदृशाम् एव वेषस् तनोति ॥५७०॥
कस्यचित् ।