आमूलतो वलितकुन्तलचारुचूड
चूर्णालकप्रकरलाञ्छितभालभागः ।
कक्षानिवेशनिविडीकृतनीविर् एष
वेषश् चिरं जयति कुन्तलकामिनीनाम् ॥५६१॥
राजशेखरस्य ।
नेत्रयात्राशरक्षेपैस् त्र्यम्बकस्यापि ताडनी ।
भ्रूलता द्राविडस्त्रीणां द्वितीयं कामकार्मुकम् ॥५६२॥
तस्यैव । (बा।रा॥ १०।६८)
मुखानि चारूणि घनाः पयोधरा
नितम्बपृथ्व्यो जघनोत्तमश्रियः ।
तनूनि मध्यानि च यस्य सोभ्यगात्
कथं नृपाणां द्रविडीजनो हृदः ॥५६३॥
पाणिनेः ।
वाचो माधुर्यवर्षिण्यो नाभयः शिथिलांशुकाः ।
दृष्टयश् च चलद्भ्रूका मण्डनान्य् अन्ध्रयोषिताम् ॥५६४॥
भर्तृमेण्ठस्य ।
द्रविडीनां ध्रुवं लीलारेचितभ्रूलते मुखे ।
आसज्य राज्यभावं स्वं सुखं स्वपिति मन्मथः ॥५६५॥
कस्यचित् । (स।क।आ। २।२००)