ईर्ष्या कुलस्त्रीषु न नायकस्य
निःशङ्ककेलिर् न पराङ्गनासु ।
वेश्यासु चैतद् द्वितयं प्ररूढं
सर्वस्वम् एतास् तद् अहो स्मरस्य ॥५५६॥
रुद्रटस्य । (शृ।ति। १।६९)
कुप्यत् पिनाकिनेत्राग्निज्वालाभस्मीकृतः पुरा ।
उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥५५७॥
तस्यैव । (शृ।ति। १।७०)
सश्रीकोलकपल्लवेन तिमिरस् ताम्बूलरागच्छविः
स्वच्छायादशनव्रणैर् नखपदैश् चित्रा च पत्रावली ।
लोलापाङ्गविलोकितस्तवकिता कर्णोत्पलश्रीर् इति
व्यक्तोद्दीपितभूषणः स्मरम् अपि क्षुभ्नन्ति वारस्त्रियः ॥५५८॥
जलचन्द्रस्य ।
श्रोणीभारभरालसा दरगलन्माल्योपवृत्तिच्छलाल्
लोलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन् नखाङ्कावलिः ।
लोलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो
दारान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति ॥५५९॥
कृष्णमिश्रस्य । (प्र।च। २।३४)
समुद्रवीचीव चलस्वभावा
सन्ध्याभ्रलेखेव मुहूर्तरागा ।
वेश्या कृतार्था पुरुषं हृतस्वं
निष् निषीडितालक्तकवज् जहाति ॥५६०॥
शूद्रकस्य । (मृच्छकटिका ४।१५)