ग्रामान्ते वसतिर् ममातिविजने दूरप्रवासी पतिर्
गेहे देहवती जरेव जरती श्वश्रूर् द्वितीया परम् ।
एतत् पान्थ वृथा विडम्बयति मां बाल्यातिरिक्तं वयः
सूक्ष्मं वीक्षितुम् अक्षमेह जनता वासोन्यतश् चिन्त्यताम् ॥५४६॥
बलभद्रस्य ।
एकाकिनी परवशा तरुणी तथाहम्
अस्मिन् गृहे गृहपतिश् च गतो विदूरम् ।
किं याचसे तद् इह वासम् इयं वराकी
श्वश्रूर् ममान्धवधिरा ननु मूढपान्थ ॥५४७॥
रुद्रस्य । (काव्यालङ्कार ७।४१)
अम्बा शेतेऽत्र वृद्धा परिणतवयसाम् अग्रणीर् अत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुर् गर्भदासी तथात्र ।
अस्मिन् पापाहम् एका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृतिव्याजपूर्वम् ॥५४८॥
भट्टस्य । (सु।र। ८१२, सू।मु। ८७।१२)
पुरः पल्ली शून्या तद् अनु च विदूरेऽस्ति नगरं
परं पारे गङ्गं चरमगिरिगामी च मिहिरः ।
इतो यान्तं प्रान्ते मम रमणम् आलोकयसि चेत्
ततस् ते कल्याणं पथिक स हि तत्र प्रहरिकः ॥५४९॥
नीलोकस्य ।
पान्थ स्वैरगतिं विहाय झटिति प्रस्थानम् आरभ्यताम्
अत्यन्तं करिशूकराहित्गवयिर् भीमं पुरः काननम् ।
चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा
स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी ॥५५०॥
कस्यचित् । (सु।र। ८१०)