०१३ कुलटोपदेशः

वयं बाल्ये बालांस् तरुणिमनि यूनः परिणताव्
अपीच्छामो वृद्धांस् तद् इह कुलरक्षा समुचिता ।
त्वयारब्धं जन्म क्षपयितुम् अनेनैकपतिना
न नो गोत्रे पुत्रि क्वचिद् अपि सतीलाञ्छनम् अभूत् ॥५३६॥

विद्यायाः । (स।क।आ। ३।१६३, शा।प। ३७६१)

उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणां
तस्मात् कोऽपि त्वयाद्य प्रभृति न सहसा सम्मुखं वीक्षणीयः ।
यावच्चन्द्रार्कम् एकः पतिर् अतिशयितश्रद्धया सेवितव्यः
कर्तव्या रूपरक्षा वचसि न हृदयं देयम् अस्मद्विधानाम् ॥५३७॥

शरणस्य ।

आराध्यः पतिर् एव तस्य च पदद्वन्द्वानुवृत्तिर् व्रतं
केनैताः सखि शिक्षितासि विपथप्रस्थानदुर्वासनाः ।
किं रूपेण न यत्र मज्जति मनो यूनां किम् आचार्यकैर्
गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ॥५३८॥

तस्यैव ।

अस्माकं व्रतम् एतद् एव यद् अयं कुञ्जोदरे जागरः
शुश्रूषा मदनस्य वक्त्रमधुभिः सन्तर्पणीयोऽतिथिः ।
निस्त्रिंशाः शतशः पतन्तु शिरसश् छेदोऽथवा जायताम्
आत्मीयं कुलवर्त्म पुत्रि न मनाग् उल्लङ्घनीयं त्वया ॥५३९॥

वैद्यगदाधरस्य ।

कुलोत्कर्षात् स्नेहात् कमितुर् अथवा पातकभयात्
सखि श्रद्धा ते स्याद् यदि विनयम् आलम्बितुम् अपि ।
किम् एभिर् दातव्यं परिकलयं शिप्रातटरुहां
करञ्जानां कुञ्जैर् अविनयवतीनर्मनिपुणैः ॥५४०॥

डिम्बोकस्य ।